________________
वृत्तिः
अनुयो मलधारीया
उपक्र
माधिः
॥१३५॥
"शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साऽद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥१॥” इत्यादि-IN प्वयं सर्वरसानामादावेव पठ्यते, अन तु त्यागतपोगुणो वीररसे वर्तते, त्यागतपसी च 'त्यागो गुणो गुणशतादधिको मतो में परं लोकातिगं धाम तपः श्रुतमिति द्वय' मित्यादिवचनात् समस्तगुणप्रधान इत्यनया विवक्षया वीररसस्यादावुपन्यास इति २, श्रुतं शिल्पं त्यागतपःशौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्व वस्त्वद्भुतमुच्यते, तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः ३, रोदयति-अतिदारुणतया अश्रूणि मोचयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, तदर्शनाद्युद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्रः ४, बीडयति-लज्जामुत्पादयतीति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलीकतादिवरूपो वीडनकः, अस्य स्थाने भयजनकसङ्ग्रामादिवस्तुदर्शनादिप्रभवो भयानको रसः पठ्यते अन्यत्र, स चेह रौद्ररसान्तर्भावविवक्षणात् पृथग नोक्तः ५, शुक्रशोणितोचारप्रश्रवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षवरूपो रसोऽपि बीभत्सः ६, विकृतासम्बद्धपरवचनवेषालङ्कारादिहास्याहंपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको रसोऽपि हास्यः ७, कुत्सितं रौत्यनेनेति निरुक्तवशात् करुणः, करुणास्पदत्वात् करुणः, प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षखरूपः करुणो रस इत्यर्थः ८, प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्तः, परमगुरुवचःश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण ९॥ एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाह
। रसोऽपि प्रश्रवणायनिष्टमुटेजतायत अन्यत्र, स चेहरा
SACRECORRECRUCIA
॥१३५॥
Jain Education
For Private Personel Use Only
jainelibrary.org