________________
Jain Education
ऐदयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचारप्रस्तावात् प्रथमादिविभक्तयन्तं नामैव गृह्यते, तथा (चा) ष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेदमुच्यते इति भावार्थ: । ( ग्रन्थाग्रं० ३००० ) से तं अट्ठनामेत्ति निगमनम् ॥ १२९ ॥ अथ नवनाम निर्दिशन्नाह
से किं तं नवनामे ?, २ णव कव्वरसा पण्णत्ता, तंजहा - वीरो सिंगारो अब्भुओ अ
दो अहो बोधव्वो । वेलणओ बीभच्छो हासो कलुणो पसंतो अ ॥ १ ॥
नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, तत्र कवेरभिप्रायः काव्यं, रस्यन्ते अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः उक्तं च- " बाह्यार्थालम्बनो यस्तु, विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ १ ॥” काव्येषूपनिबद्धा रसाः काव्यरसाः- वीरशृङ्गारादयः, तानेवाह - 'वीरो सिंगारो' इत्यादिगाथा सुगमा, नवरं 'शूर वीर विक्रान्ता' विति वीर्यति - विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरो, रस इति सर्वत्र गम्यते, शृङ्गं सर्वरसेभ्यः परमप्रकर्ष कोटिलक्षणमियति - गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव
For Private & Personal Use Only
w.jainelibrary.org