SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा- रीया ॥१३४॥ स्मिन् सप्तमी विहिता, अष्टमी सम्वुद्धिः-आमन्त्रणी भवेद्, आमन्त्रणार्थे विधीयत इत्यर्थः। एनमेवार्थ : वृत्तिः सोदाहरणमाह-'तत्थ पढमें'त्यादिगाथाश्चतस्रो गतार्था एव, नवरं प्रथमा विभक्तिनिर्देशे, क ? यथेत्याही उपक्र-'सोत्ति सः तथा 'इमोत्ति अयं 'अहं'त्ति अहं वाशब्द उदाहरणान्तरसूचकः, उपदेशे द्वितीया, क? माधि० यथेत्याह-भण कुरु वा, किं तदित्याह-'इदं' प्रत्यक्षं तद्वा-परोक्षमिति, तृतीया करणे, क? यथेत्याहभणितं वा कृतं वा, केनेत्याह-तेन वा मया वेति, अत्र यद्यपि कर्तरि तृतीया प्रतीयते, तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा, देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता विदन्तीति, 'हंदि नमो साहाए'इत्यादि, हन्दीत्युपदर्शने, नमो देवेभ्यः स्वाहा अग्नये इत्यादिषु सम्प्रदाने चतुर्थी भवतीत्येके, अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति, अपनय गृहाण एतस्मादितो वेत्येवमपादाने पश्चमी, तस्यास्य गतस्य, कस्य ?भृत्यादेरिति गम्यते, इत्येवं खखामिसम्बन्धे षष्ठी, तद्वस्तु बदरादिकं अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति, तथा 'कालभावे अत्ति कालभावयोश्चेयं द्रष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते, आमन्त्रणे भवेदष्टमी यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, १ साधूनां हि प्रत्यहं बहुवेलकरणात् प्रतिकार्यमाचार्यपृच्छासद्भावाच कारकोऽत्राचार्यः विवक्ष्यते करणं च साधवस्तदा संगतिरत्र. २ व्याप्यादिवत्तत्र ॥१३४॥ तत्संज्ञाकरणात्. 5-0-96 Jain Education a l For Private & Personel Use Only O w.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy