________________
वा पंचमी अवायाणे । छट्ठी तस्स इमस्स व गयस्स वा सामिसंबंधे ॥ ५॥ हवइ पुण सत्तमी तं इमंमि आहारकालभावे अ । आमंतणी भवे अट्टमी उ जहा हे जुवा
णत्ति ॥ ६॥ से तं अट्ठणामे (सू० १२९) उच्यन्त इति वचनानि-वस्तुवाचीनि विभज्यते-प्रकटीक्रियते अर्थोऽनयेति विभक्तिः वचनानां विभहै क्तिर्वचनविभक्तिः, नाख्यातविभक्तिरपि तु नामविभक्तिः प्रथमादिकेति भावः, सा चाष्टविधा तीर्थकर
गणधरैः प्रज्ञप्ता, का पुनरियमित्याशक्य यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह-'तद्यथे'त्यादि 'निद्देसे इत्यादिश्लोकद्वयं निगदसिद्धं, नवरं-लिङ्गार्थमात्रप्रतिपादनं निर्देशः, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम् औ शस् इति द्वितीया विभक्तिर्भवति, उपलक्षणमात्रं चेदं, कटं करोतीत्यादिषूपदेशमन्तरेणापि द्वितीयाविधानाद, एवमन्यत्रापि यथासम्भवं वाच्यं, विवक्षितक्रियासाधकतमं करणं तस्मिंस्तृतीया 'कृता' विहिता, सम्प्रदीयते यस्मै तद्गवादि दानविषयभूतं सम्प्रदानं तस्मिश्चतुर्थी विहिता, अपादीयते-वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानं तत्र पञ्चमी विहिता, स्वम्-आत्मीयं सचित्तादि स्वामी-राजादिःतयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः, संनिधीयते-आधीयते यस्मिस्तत्सन्निधानम्-आधारस्तदेवार्थस्त
Jain Education intense
For Private & Personal use only
www.pinelibrary.org