SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ होइ ॥ १४ ॥ हासो रसो जहा-पासुत्तमसीमंडिअपडिबुद्धं देवरं पलोअंती । ही जह थणभरकंपणपणमिअमज्झा हसइ सामा ॥ १५ ॥ रूपवयोवेषभाषाणां हास्योत्पादनार्थ वैपरीत्येन या विडम्बना-निवर्तना तत्समुत्पन्नो हास्यो रसो भवतीति संयोगः, तत्र पुरुषादेोषिदादिरूपकरणं रूपवैपरीत्यं, तरुणादेवृद्धादिभावापादानं वयोवैपरीत्यं, राजपुत्रादेर्वणिगादिवेषधारणं वेषवैपरीत्यं, गुर्जरादेस्तु मध्यदेशादिभाषाभिधानं भाषावैपरीत्यं, सच कथंभूतः स्यादित्याह-'मणप्पहासो'त्ति मनःप्रहर्षकारी प्रकाशो-नेत्रवादिविकाशखरूपो लिङ्गं यस्य स तथा, अथवा प्रकाशानि-प्रकटान्युदरप्रकम्पनाऽदृहासादीनि लिङ्गानि यस्येति स तथेति ॥१४॥'पासुत्तमसी'त्यादि निदर्शनगाथा, इह कयाचिद्बध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति, तां सच हसन्तीमुपलभ्य कश्चित्पार्श्ववर्तिनं कश्चिदामय प्राह-हीति कन्दर्पातिशयद्योतकं वचः, पश्यत भोः श्यामा | स्त्री यथा हसतीति सम्बन्धः, किं कुर्वती?-देवरं प्रलोकयन्ती, कथंभूतं?-'पासुत्ते'त्यादि, छिन्नप्ररूढादिवत्र है कर्मधारयः, पूर्व प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तं, कथंभूता?-स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा तथेति ॥ १५॥ अथ हेतुतो लक्षणतश्च करुणरसखरूपमाह पिअविप्पओगबंधवहवाहिविणिवायसंभमुप्पण्णो । सोइअविलविअपम्हाणरुपणलिंगो मध्यं यस्याः सा मषीमण्डितश्चाता , कथंभूतं?- पावचा, पश्यत: अनु. २४ Jain Education inalAI For Private Personal Use Only Jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy