________________
CANADAM
ञ्चारसमम् । एवमेते स्वराः सप्त भवन्ति, इदमुक्तं भवति-एकोऽपि गीतखरोऽक्षरपदादिभिः सप्तभिः स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्त खरा अक्षरादिभिः समा दर्शिता भवन्तीति । गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह-निदोसमित्यादि, तत्र 'अलियमुवघायजणयमित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषं १ विशिष्टार्थयुक्तं सारवत् २ गीतनिबद्धार्थगमकहेतुयुक्ततया दृष्टं हेतुयुक्तम् ३ उपमाद्यलङ्कारयुक्तमलङ्कृतम् ४ उपसंहारोपनययुक्तमुपनीतम् ५ अनिष्ठराविरुद्धालजनीयार्थवाचकं सानुप्रासं वा सोपचारम् ६ अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं ७ मधुरं अव्यशब्दार्थ ८ गेयं भवतीति शेषः। 'तिणि य वित्ताई ति यदुक्तं, तत्राह-'सम'मित्यादि, यत्र वृत्ते चतुर्वपि पादेषु सङ्ख्यया समान्यक्षराणि भवन्ति तत्सम, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसङ्ख्यासमत्वं तदर्द्धसमं, यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद्विषमं, 'जति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः, एवमन्यथाऽप्यविरोधतो व्याख्येयमिदमिति । 'दुण्णि य भणिइओत्ति यदुक्तं तत्राह-'सक्कए'त्यादि भणितिर्भाषा खरमण्डले-षडादिखरसमूहे, शेषं | कण्ठ्यं, गीतविचारप्रस्तावादिदमपि पृच्छति-केसी गायईत्यादिप्रश्नगाथा सुगमा, नवरं 'केसित्ति कीदृशी स्त्री इत्यर्थः, 'खरंति खरस्थानं, रूक्षं प्रतीतं, चतुरं-दक्षम्, विलम्बित-परिमन्थर, द्रुतं शीघमिति । 'विस्सरं पुण केरिसित्ति गाथाऽधिकमिदं । अत्र क्रमेणोत्तरमाह-गोरी गायइ महुर'मित्यादि, अत्रापि विस्सरं पुण3
ACADEMAR
अनु. २३
Join Education
anal
For Private sPersonal use Only
How.jainelibrary.org