________________
वृत्तिः
अनुयो० मलधारीया
उपक्रमाधि०
॥१३२॥
शिरोविशुद्धं च, अयमर्थः-यारसि खरो विशालस्तर्युरोविशुद्धं, कण्ठे यदि खरो वर्तितोऽतिस्फुटितश्च तदा कण्ठविशुद्धं, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा उरकण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुर कण्ठशिरोविशुद्धं, गीयते गेयमिति संबध्यते, किंविशिष्टमित्याह-मृदुकं मृदुना-अनिष्टुरेण खरेण यद्गीयते तन्मृदुकं, यत्राक्षरेषु घोल नया संचरन् खरो रगतीव तत् घोलनाबहुलं रिङ्गितं, गेयपदैवद्धं विशिष्टविरचनया रचितं पदबद्धं, ततश्च पदत्रयस्य कर्मधारयः, 'समतालपडुक्खेवं ति तालशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरजकांसिकादिगीतोपका|रकातोद्यानां ध्वनिः प्रत्युत्क्षेपः नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतखरेण तालप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपं, 'सत्तस्सरसीभरं'ति सप्त स्वराः सीभरन्ति-अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरं गीतमिति, ते चामी सप्त खराः-'अक्खरसम' गाहा, यत्र दीर्घ अक्षरे दीर्घो गीतखरः क्रियते इखे इस्खः प्लुते प्लुतः सानुनासिके तु सानुनासिकः तदक्षरसमं यद्गीतपदं-नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीते गीयते तत् पदसमं, यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसमं, शृङ्गदाद्यन्यतरवस्तुमयेनाङ्गुलीकोशकेन समाहतं, तनीखरप्रकारो लयस्तमनुसरता स्वरेण यद्गीयते तल्लयसमं, प्रथमतो वंशतच्यादिभिर्यः खरो गृहीतस्तत्समेन खरेण गीयमानं ग्रहसमं, नि:श्वसितोच्चसितमानमनतिक्रमतो यद्नेयं तन्निःश्वसितोच्छ्रसितसम, वंशतच्यादिष्वेवाङ्गुलीसञ्चारसमं यद्गीयते तत्स
॥ १३२॥
Jain Education
For Private Personal Use Only