________________
विस्सरं पुण केरिसी । गाथाऽधिकमिदं । गोरी गायति महुरं सामा गायइ खरं च रुक्खं च । काली गायइ चउरं काणा य विलंबिअं दुतं अंधा ॥ ३१ ॥ विस्सरं पुण पिंगला । गाथाऽधिकमिदमपि । सत्त सरा तओ गामा मुच्छणा इक्वीसई । ताणा
एगणपण्णासं, सम्मत्तं सरमंडलं ॥ ३२ ॥ से तं सत्तनामे (सू० १२८) | षडू दोषा वर्जनीयास्तानाह-भीयं' गाहा भीतमुत्रस्तमानसं यद्गीयते इत्येको दोषः १, द्रुतं त्वरितम् २, उप्पिच्छं-श्वासयुक्तं त्वरितं च, पाठान्तरेण 'रहस्सं ति हखखरं लघुशब्दमित्यर्थः ३, उत्तालम्-उत्पाबल्यार्थे अतितालमस्थानतालं चेत्यर्थः, तालस्तु कंसिकादिशब्दविशेषः ४, काकवरं श्लक्ष्णाश्रव्यखरम् ५, | अनुनासं-नासाकृतवरम् । एते षड् दोषा गीतस्य भवन्ति । अष्टौ गुणानाह-'पुण्णं' गाहा, खरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्ण १, गेयरागेण रक्तस्य-भावितस्य रक्तम् २, अन्यान्यस्फुटशुभखरविशेषाणां करणादलङ्कृतम् ३, अक्षरखरस्फुटकरणाद्व्यक्तं ४, विक्रोशनमिव यद्विखरं न भवति तदविघुष्टं ५, मधुमत्तकोकिलारुतवन्मधुरखरं ६, तालवंशवरादिसमनुगतं समं ७, वरघोलनाप्रकारेण सुष्ठ-अतिशयेन ललतीव यत् सुकुमालं तत् सुललितम् ८, एते अष्टौ गुणा गीतस्य भवन्ति, एतद्विरहितं तु विडम्बनामात्रमेव तदिति। किं चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति, तानाह-उर'गाहा, चकारो गेयगुणान्तरसमुच्चयार्थः, उरकण्ठ
Jain EducatioraNational
For Private & Personel Use Only
P
w.jainelibrary.org