SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ * जमेव प्रथमखरलक्षणं ब्रूयात्, कयेत्याह-अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थस्तया, इह यद्यपि षड्जभणने स्थानान्तराण्यपि कण्ठादीनि व्याप्रियन्ते अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीतिकृत्वा तया तमेव ब्रूयादित्युक्तम्, इदमत्र हृदयम्-षड्जखरोऽग्रजिह्वां प्राप्य विशिष्टां व्यक्तिमासादयत्यतस्तदपेक्षया सा खरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या, उरो-वक्षस्तेन ऋषभं खरं, ब्रूयादिति सर्वत्र संबध्यते, 'कंठुग्गएणंति कण्ठादुद्गमनमुद्गतिः-स्वरनिष्पत्तिहेतुभूता क्रिया तेन कण्ठोद्गतेन गान्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्चौष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति, भ्रत्क्षेपावष्टम्भेन निषादमिति । इत ऊर्ध्व सर्व निगदसिद्धमेव, नवरं 'जीवनिस्सिय'त्ति जीवाश्रिताः जीवेभ्यो वा निसृता-निर्गताः, 'सज्जं रवई'त्यादिश्लोकः, रवति-नदति 'गवेल'त्ति गावश्च एलकाश्चऊरणका गवेलकाः, अथवा गवेलका-ऊरणका एव, 'अह कुसुम'त्यादि, अथेति विशेषणार्थो, विशेषणार्थता चैवं-यथा गवेलका अविशेषेण मध्यमवरं नदन्ति न तथा पञ्चमं कोकिलः, अपि तु वनस्पतिषु बाहुल्येन कुसुमानां-मल्लिकापाटलादीनां सम्भवो यस्मिन् काले स तथा तस्मिन् , मधुमास इत्यर्थः, 'अजीवनिस्सियत्ति तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी मन्तव्याः, अपरं षडूजादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यर्थो न घटते तथापि सादृश्यात् तद्भावोऽवगन्तव्यः, सज्जमित्यादिश्लोकद्वयं, गोमुखी-काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति, चतुर्भिश्चरणैः प्रतिष्ठान ॐ****SHARE Jain Education a l For Private Personal use only R -jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy