________________
वाचि-"वायुः समुत्थितो नाभेरुरो हृदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ॥४॥" तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः, अथवा पञ्चसु-नाभ्यादिस्थानेषु मा-3 तीति पञ्चमः स्वरो, यदभ्यधायि-"वायुः समुत्थितो नाभेरुरोहृत्कण्ठशिरोहतः । पश्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥ ५ ॥” तथाऽभिसन्धयतेऽनुसंधयति शेषस्वरानिति निरुक्तिवशाद्धैवतः, यदुदोक्तम्-"अभिसंधयते यस्मादेतान् पूर्वोदितखरान् । तस्मादस्य खरस्यापि, धैवतत्वं विधीयते ॥६॥” पाठा
न्तरेण रैवतश्चैवेति, तथा निषीदन्ति खरा यस्मिन् स निषादः, यतोऽभिहितम्-"निषीदन्ति खरा यस्मिनिषादस्तेन हेतुना । सर्वाश्चाभिभवत्येव, यदादित्योऽस्य दैवतम् ॥७॥” इति, तदेवं खराः-जीवाजीवनिधि
तध्वनिविशेषाः 'सत्त वियाहिय'त्ति विविधप्रकारैराख्यातास्तीर्थकरगणधरैरिति श्लोकार्थः। आह-ननु कारहैणभेदेन कार्यस्य भेदात् खराणां च जिह्वादिकारणजन्यत्वात् तद्वतां च द्वीन्द्रियादित्रसजीवानामसख्ये
यत्वाज्जीवनिमृता अपि तावत् खरा असख्याताः प्रामुवन्ति किमुताजीवनिमृता इति कथं सप्तसङ्ख्या-| नियमो न विरुध्यत इति?, अत्रोच्यते, असख्यातानामपि खरविशेषाणामेतेष्वेव सप्तसु सामान्यवरेध्वन्तर्भावाद् बादराणां वा केषाश्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद्गीतोपकारिणां विशिष्टस्वराणां वक्तुमिष्टत्वाददोष इति ॥ स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराह
१ नवाक्षरोऽयं पदः.
-SAMACHARCOSCARSIOS
Jain Educati
o
nal
For Private 8 Personal Use Only
Olow.jainelibrary.org