________________
अनुयो०
वृत्तिः
रीया
उपक्र माधि
॥१२७॥
भावः स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यो, यदाह-'अविरुद्धसन्निवाइयभेया एमेव पण्णरस'त्ति, 'से तं सपिणवाइए'त्ति निगमनम् । उक्तः सान्निपातिको भावः, तद्भणने चोक्ताः षडपि भावाः, ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि, एतैश्च षड्भिरपि धर्मा-12 स्तिकायादेः समस्तस्यापि वस्तुनः सङ्ग्रहात् षट्रप्रकारं सत् सर्वस्यापि वस्तुनो नाम षड़नामेत्यनया दिशा सर्वमिदं भावनीयं, 'से तं छण्णामेत्ति निगमनम् ॥ १२७ ॥ उक्तं षड्नाम, अथ सप्तनामं निरूपयितुमाह
से किं तं सत्तनामे ?, २ सत्त सरा पण्णत्ता, तंजहा-सज्जे रिसहे गंधारे, मज्झिमे पंचमे
सरे । रेवए चेव नेसाए, सरा सत्त विआहिआ ॥ १॥ 'स्व शब्दोपतापयोरिति वरणानि खरा:-ध्वनिविशेषाः, ते च सप्त, तद्यथा-'सजेत्तिश्लोको, व्याख्याषड्भ्यो जातः षड्जः, उक्तं च-"नासां कण्ठमुरस्तालु, जिह्वां दन्ताँश्च संश्रितः । षभिः संजायते यस्मात्, तस्मात् षड्ज इति स्मृतः॥१॥” तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च-"वायुः समुत्थितो नाभे, कण्ठशीर्षसमाहतः । नर्दन वृषभवद् यस्मात् , तस्माद्दषभ उच्यते ॥२॥” तथा गन्धो विद्यते द्र यस्य स गन्धारः, स एव गान्धारो-गन्धवाहविशेष इत्यर्थः, अभाणि च "वायुः समुत्थितो नाभेहृदि
कण्ठे समाहतः। नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥ ३ ॥” तथा मध्ये कायस्य भवो मध्यमः, यद
॥१२
in Education
For Private Personel Use Only