________________
श्यमात्मानं करोतीत्यावश्यक, यथा अन्तं करोतीति अन्तकः, अथवा-आवस्सयंति प्राकृतशैल्या आवासक, तत्र 'वस निवासे' इति गुणशून्यमात्मानम् आ-समन्तात् वासयति गुणैरित्यावासकं, 'चउब्विहं पण्णत्तंति' चतस्रो विधा-भेदा अस्येति चतुर्विधं प्रज्ञप्त-प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, तद्यथा-'नामावस्सयमित्यादि नाम-अभिधानं तद्रूपमावश्यकं नामावश्यकम् आवश्यकाभिधानमेवेत्यर्थः, अथवा नाम्ना-नाममात्रेणावश्यक नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम्-“यवस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभि
धेयं च नाम यादृच्छिकं च तथा ॥ १ ॥" विनेयानुग्रहार्थमेतद्व्याख्या-यवस्तुन इन्द्रादेः 'अभिधानम्' इन्द्र ला इत्यादिवर्णावलीमात्रमिदमेव च आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात्तन्नामेति संटङ्कः,
अथ प्रकारान्तरेण नाम्नो लक्षणमाह-'स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति' तदपि नाम, यत्कथंभूतमित्याह-अन्यश्चासावर्थश्चान्यार्थो-गोपालदारकादिलक्षणः तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्ध सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह-'तदर्थनिरपेक्षम्' इति, तस्य-इन्द्रादिनानोऽर्थः-परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षं गोपालदारकादौ तदर्थस्याभावात्, पुनः किंभूतं तदित्याह-पर्यायानभिधेयमिति' पर्यायाणां-शक्रपुरन्दरादीनामनभिधेयम्-अवाच्यं, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्रपुरन्दरादिशब्दै भिधीयन्ते, अतस्तनामापि नामतद्वतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते, चशब्दो नाम्न एव लक्षणान्तरसूचका, शची
SEARHIASAASAASAASAASAS
Jain Education in
For Private Personel Use Only
Ninelibrary.org