________________
4567
ला
वृत्तिः
अनुयो० मलधारीया
अनुयो० अधि .
॥१०॥
तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह-'यत्र च' जीवादिवस्तुनि यं जानीयात् 'निक्षेपं न्यासं, यत्तदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं 'निक्षिपेत् निरूपयेत् 'निरवशेष' समग्रं, यत्रापि च न जानीयान्निरवशेष निक्षेपभेदजालं तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेद्, इदमुक्तं भवति-यत्र तावन्नामस्थापनाद्रव्यक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥१॥ तत्र 'यथोद्देशं निर्देश इत्यावश्यकनिक्षेपार्थमाह|. से किं तं आवस्सयं?, आवस्सयं चउव्विहं पण्णत्तं, तंजहा-नामावस्सयं ठवणावस्सयं
दव्वावस्सयं भावावस्सयं (सू०८) अत्र से शब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः, तथा चोक्तम्-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासनिर्वचनसमुच्चयेषु” इति, किमिति प्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:-अथ किंवरूपंतदावश्यकम्?, एवं प्रश्निते सत्याचार्यःशिष्यवचनानुरोधेन आदराधानार्थ प्रत्युच्चार्य निर्दिशति-'आवस्सयं चउब्विह'मित्यादि,अवश्यं कर्त्तव्यमावश्यकम् , अथवा गुणानां आ-समन्ताद
॥१०॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org