________________
ज्ञानुयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावे विदमेवोक्तम्-इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यतो भिन्नप्रस्तावत्वात् पृच्छा क्रियते 'आवस्सयस्स णं. किमित्यादि, विस्मरणशीलाल्पवुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्यदोषः॥६॥ तदेवं यस्माद् इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं, यस्माचाष्टखनन्तरोक्तप्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं, तस्मात्किमित्याह. तम्हा आवस्सयं निक्खिविस्सामि सुअं निक्खिविस्सामि खंधं निक्खिविस्सामि अ
ज्झयणं निक्खिविस्सामि (सू०७) यस्मात्प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणावश्यकादिरूपतया निर्णीतं, तस्मादावश्यकं निक्षेप्स्यामि श्रुतं | निक्षेप्स्यामि स्कन्धं निक्षेप्स्यामि अध्ययनं निक्षेप्स्यामि, इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थों निरूपणीयः, स च निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते, तत्र निक्षेपणं निक्षेपो-यथासंभवमावश्यकादेर्नामादिभेदनिरूपणम् ॥७॥
जत्थ य ज जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थविअ न जाणेजा चउक्कगं निक्खिवे तत्थ ॥१॥ (१)
Jain Education
D
onal
For Private & Personel Use Only
Daw.jainelibrary.org