________________
अनुयो. मलधा
वृत्तिः
रीया
अनुयो. अधि.
॥९
॥
1555555
णाई उद्देसो उद्देसा?, आवस्सयस्स णं नो अंगं नो अंगाई सुअखंधो नो सुअखंधा
नो अज्झयणं अज्झयणाई नो उद्देसो नो उद्देसा (सू०६) यद्यावश्यकस्य प्रस्तुतोऽनुयोगः, तर्हि किं णमिति वाक्यालङ्कारे, किमिति परप्रश्ने, किमेकं द्वादशातान्तर्गतमङ्गमिदम् , उत बहून्यङ्गानि, अथैकः श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्नाः, तत्र श्रुतस्कन्धः अध्ययनानि चेदमिति प्रतिपत्तव्यं, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेयाः, अनङ्गादिरूपत्वादिति, एतदेवाह-'आवस्सयस्स 'मित्यादि, अत्राह-नन्वावश्यकं किमङ्गमगानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाह्योत्कालिकक्रमेणानन्तरमेवोक्तत्वादिति, अत्रोच्यते, यत्तावदुक्तं-'नन्द्यध्ययन एवेत्यादि' तयुक्तं, यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति नियमोऽस्ति, कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहागानङ्गप्रविष्टचिन्तासूबोपन्यासेनेति, मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येया इति चेन्न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति, यचोक्तम् 'अत्राप्यङ्गबाटोत्कालिकक्रमेणेत्यादि' तत्रापि समुदितानामुद्देशसमुद्देशानु
AMROCESSORECAMERICALCCAMS
॥९॥
Jain Education in
For Private Personel Use Only
ainelibrary.org