________________
-क्षीणायुरिति, आयुःकर्मविप्रमुक्त इति निगमनं । नामकर्म सामान्येन शुभाशुभभेदतो द्विविधं, विशेषतस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद द्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयं, तत्रेह तत्क्षयभावीनि कियन्ति |तन्नामानि अभिधत्त-'गइजाइसरीरे'त्यादि. इह प्रक्रमान्नामशब्दो यथासम्भवं द्रष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपश्चकनिवन्धन शरीरनाम, आदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गानिवृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्य|मिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुबन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनाथेमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनाम, कपाटादाना लाहपहादिरिवोदारिकशरीरास्त्रां परस्परबन्धविशेषनिबन्धनं संहनननाम. एतच्च बन्धनादिपदत्रयं कचिद्वाचनान्तरे न दृश्यत इति, बोन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाश्च ता नानाभवेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतैजसकार्मणलक्षणानां तिसृणां भावाद बोन्द्यश्चानेकबोन्द्यस्तासां वृन्द-पटलं तदेव पुद्गलस
ङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसरातः, गत्यादीनां च द्वन्द्व गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातनसंहननसंस्थानानेकबोन्दिवृन्दसघातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निवन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेषः, क्षीणम्-अपगतं तीर्थकरशुभसुभगसुखरादेययशाकीयादिकं शुभं नाम यस्य स तथा, क्षीणम्-अपगतं नरकगत्यशुभदुर्भगदु:खरा
KKAKARSANSAR
Jan Education
For Private
Personal use only
Mainelibrary.org