SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ वृत्तिः उपक्रमाधि अनुयोपडिबोहा निहा दुहपडिबोहा य निद्दनिद्दा य । पयला होइ ठियस्सा पयलापयला य चंकमओ ॥१॥ अइ-12 मलधा-18 संकिलिट्टकम्माणुवेयणे होइ थीणगिद्धी उ । महनिद्दा दिणचिंतियवावारपसाहणी पायं ॥२॥” अपरं रीया च-अनावरणादिशब्दाः पूर्व ज्ञानावरणाभावापेक्षाः प्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः, वेद नीयं द्विधा-प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातं, तत्क्षयापेक्षास्तु क्षीणसातावेदनीयादयः शब्दाः सुखो॥११७॥ न्नेयाः, नवरमवेदनो-वेदनारहितः, स च व्यवहारतोऽल्पवेदनोऽप्युच्यते ततः प्राह-निर्वेदन:-अपगतसर्ववेदनः, स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदन:-अपुन विवेदनः, निगमयन्नाह-'सुभासुभवेअणिजकम्मविप्पमुक्केत्ति । मोहनीयं द्विधा-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र दर्शनमोहनीयं त्रिधा-सम्यक्त्वमिश्रमिथ्यात्वभेदात्, चारित्रमोहनीयं च द्विधा-क्रोधादिकषायहास्यादिनोकषायभेदात्, तत एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव, नवरं मायालोभौ प्रेम, क्रोधमानौ तु द्वेषः, तथा अमोहः-अपगतमोहनीयकर्मा, स च व्यावहारिकैरल्पमोहोदयोऽपि निर्दिश्यते अत आह-निर्गतो मोहान्निर्मोहः, स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत् तद्व्यवच्छेदार्थमाह-क्षीणमोहः अपुन विमोहोदय इत्यर्थः, निगमयति-मोहनीयकर्मविप्रमुक्त इति । नारकाद्यायुष्कभेदेनायुश्चतुर्दा, तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्कोऽनायुष्कस्तद्भविकायुःक्षयमात्रेऽपि स्यादत उक्तं-निरायुष्कः, स च शैलेशी गतः किश्चिदवतिष्ठमानायुःशेषोऽप्युपचारतः स्यादत उक्तं ॥११७॥ Jain Education For Private & Personal Use Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy