________________
च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्यायाः संभवन्ति तान् क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद् ये भवन्ति तानाह–'उप्पण्णणाणदंसणे'त्यादि, उत्पन्ने-श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्त ज्ञानदर्शने धरति यः स तथा, 'अरहा' अविद्यमानरहस्यो, नास्य गोप्यं किञ्चिदस्तीति भावः, आवरणशत्रुजेतृत्वाजिनः, केवलं-सम्पूर्ण ज्ञानमस्यास्तीति केवली, क्षीणमाभिनियोधिकज्ञानावरणं यस्य स तथा, एवं नेयं यावत् क्षीणकेवलज्ञानावरणः, अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवानावरणः, तथा निर्गत आगन्तुकादप्यावरणाद् राहुरहितरोहिणीशवदेव निरावरणः, तथा क्षीणमेकान्तेनापुनर्भावितया आवरणमस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरणः, निगमयन्नाह-ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्तः, एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा नयमतभेदेन सुधिया भेदो वाच्यः। तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह-'केवलदंसी'त्यादि, केवलेन-क्षीणावरणेन दर्शनेन पश्यतीति केवलदर्शी क्षीणदर्शनावरणत्वादेव सर्व पश्यतीति सर्वदशीत्येवं निद्रापञ्चकदर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि, नवरं निद्रापञ्चकवरूपमिदम्-"सुह
१ सुखप्रतिबोधा निद्रा दुःखप्रतिबोधा च निद्रानिद्रा च । प्रचला भवति स्थितस्य प्रचलाप्रचला च चमतः ॥ १॥ अतिसंक्लिष्टकर्माणुवेदने भवति स्त्यानगृद्धिस्तु । महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः ॥ २॥
Jain Education
For Private & Personel Use Only
Mainelibrary.org