SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ दयजनितानां नारकत्वादीनां भवत्विहोपन्यासों लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत्किमितीह तदुपन्यासः?, सत्यं, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्ये तु मन्यन्ते-कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तदर्थना तु गन्धहस्तिवृत्तिरनुसर्तव्येति, ‘से तं जीवोदयनिप्फण्णे'त्ति निगमनम् । अथाजीवोदयनिष्पन्नं निरूपयितुमाह-से किं तमित्यादि, 'ओरालियं वा सरीरीति विशिष्टाका|रपरिणतं तिर्यडू-मनुष्यदेहरूपमौदारिकं शरीरं, 'उरालिअसरीरप्पओगे'इत्यादि, औदारिकशरीरप्रयोगप|रिणामितं द्रव्यम् , औदारिकशरीरस्य प्रयोगो-व्यापारस्तेन परिणामितं खप्रयोगित्वात् गृहीतं तत्तथा, तच्च वर्णगन्धरसस्पर्शानापानादिरूपं खत एवोपरिष्टाद् दर्शयिष्यति, वाशब्दौ परस्परसमुच्चये, एतद्वितयमप्यजीवेपुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदथिको भाव उच्यते, एवं वैक्रियशरीरादिष्वपि भावना कार्या, नवरं वैक्रियशरीरनामकर्माद्युदयजन्यत्वं यथाखं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह-पओगपरिणामिए वपणे इत्यादि, पञ्चानामपि शरीराणां प्रयोगेण-व्यापारेण परिणामितं-गृहीतं वर्णादिकं शरीरवर्णादिसम्पादक द्रब्यमिदं द्रष्टव्यम्, उपलक्षणत्वाच वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् खत एव दृश्यमिति । अत्राह-ननु यथा नारकत्वादयः पर्याया जीवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भव अनु. २० Jan Education For Private Personel Use Only elorary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy