________________
Jain Education Int
तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यं, तत्र ज्ञानावरणादी नामष्टानां प्रकृतीनामात्मीयात्मीयखरूपेण विपाकतोऽनुभवनमुदयः स एवौदयिकः, अथवा यथोक्ते नवोदयेन निष्पन्न औदयिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत् स एव औपशमिकः, तेन वा निर्वृत्त औपशमिकः क्षयः - कर्मणोऽपगमः स एव तेन वा निर्वृत्तः क्षायिकः, कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिकः दरविध्यात भस्मच्छन्नवह्निवत्, परिणमनं - तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिकः, अनन्तरोक्तानां द्व्यादिभावानां मेलकः सन्निपातः स एव तेन वा निर्वृत्तः सान्निपातिकः ॥ तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह
से किं तं उदइए ?, २ दुविहे पण्णत्ते, तंजहा - उदइए अ उदयनिष्कण्णे अ । सेकिं तं उदइए ?, २ अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदइए । से किं तं उदयनिफन्ने ?, २ दुविहे पण्णत्ते, तंजहा - जीवोदयनिष्पन्ने अ अजीवोदयनिष्पन्ने अ । से किं तं जीवोदयनिफन्ने ?, २ अणेगविहे पण्णत्ते, तंजहा - णेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेयए
For Private & Personal Use Only
Inelibrary.org