________________
अनुयो० मलधारीया
वृत्तिः उपक्रमाधि
॥११॥
सेवितः । रूक्षः शीतो गुणग्राही, रोचकश्च स्वरूपतः ॥३॥” अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः, पठ्यते च-"अम्लोऽग्निदीप्तिकृत् स्निग्धः, शोफपित्तकफापहः । क्लेदनः पाचनो रुच्यो, मूढवातानुलोमकः ॥४॥" पित्तादिप्रशमनः खण्डशर्कराद्याश्रितो मधुरः, तथा चोक्तम्-"पित्तं वातं विषं हन्ति, धातुवृद्धिकरो गुरुः। जीवनः केशकृद्वालवृद्धक्षीणौजसां हितः ॥५॥” इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोदाहृतो, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्श:-कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः, सन्नतिकारणं तिनिशलतादिगतो मृदुः, अधःपतनहेतुरयोगोलकादिगतो गुरुः, प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिधितो लघुः, देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः, आहारपाकादिकारणं वहयाद्यनुगत उष्णः, पुद्गलद्रव्याणां मिथ: संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः, तेषामेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः, एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति । संस्थानस्वरूपं तु प्रतीतमेव ।
से किं तं पजवणामे ?, २ अणेगविहे पण्णत्ते, तंजहा-एगगुणकालए दुगुणकालए तिगुणकालए जाव दसगुणकालए संखिज्जगुणकालए असंखिज्जगुणकालए अनंत
॥११०॥
Jain Education Intema
For Private
Personel Use Only
www.jainelibrary.org