________________
RSSCSCRACKROSCOCALS
इति नाम, वस्त्वभिधानमित्यर्थः, उक्तं च-"जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारियं नामं । पइभेअंजं नमई पइभेअंजाइ जं भणिअं॥१॥” इदं च दशप्रकारं कथमित्याह-'एगनामे' इत्यादि, इह येन केनचिन्नाम्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तदेकनामोच्यते, यकाभ्यां तु नामभ्यां द्वाभ्यामपि सर्व विवक्षितवस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम, यैस्तु त्रिभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम, यैस्तु चतुर्भिर्नामभिः सर्व विवक्षितं वस्त्वभिधीयते तच्चतुर्नाम, एवमनया दिशा ज्ञेयं, यावद् यैर्दशभिर्नामभिः सर्व विवक्षितं वस्तु प्रतिपाद्यते तद् दशनामेति ॥ १२१॥ तत्र 'यथोद्देशं निर्देश' इत्येकनामोदाहरन्नाह
से किं तं एगणामे ?, २-णामाणि जाणि काणिवि दव्वाण गुणाण पजवाणं च ।
तेसिं आगमनिहसे नामंति परूविआ सण्णा ॥१॥ से तं एगणामे (सू० १२२) 'नामाणि गाहा व्याख्या-'द्रव्याणां' जीवाजीवभेदानां 'गुणानां ज्ञानादीनां रूपादीनां च तथा 'पर्यायाणां' नारकत्वादीनामेकगुणकृष्णत्वादीनां च नामानि-अभिधानानि यानि कानिचिल्लोके रूढानि, तद्यथा-जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाम्बरमित्यादि, तथा ज्ञानं बुद्धिर्बोध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा नारकस्तिर्य मनुष्य इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषां सर्वेषामप्य
१ यद्वस्तुनोऽभिधानं पर्यायभेदानुसारिकं नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥ १ ॥
Jain Educatio
n
For Private & Personel Use Only
www.jainelibrary.org