SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ १०४ ॥ इह तेन तेन रूपेण भवनानि भावाः- वस्तुपरिणामविशेषाः - औयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव, यद्वा भवन्ति तैः तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी - परिपाटिर्भावानुपूर्वी, औदयिकादीनां तु खरूपं पुरस्तान्यक्षेण वक्ष्यते, अत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादादयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकस्य, स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदनन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य, ततो बहुतरविषयत्वात् क्षायोपशमिकस्य ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वात् सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भावनीयम् । तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी समाप्ता ॥ १२० ॥ साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीयं भेदं व्याचिख्यासुराह से किं तं णामे ?, णामे दसविहे पण्णत्ते, तंजहा - एगणामे दुणामे तिणामे चउणामे पंचनामे छणामे सत्तणामे अट्टणा मे णवणामे दसणामे ( सू० १२१ ) इह जीवगतज्ञानादिपर्यायाजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमति-तदभिधायकत्वेन प्रवर्तत Jain Education International For Private & Personal Use Only वृत्तिः उपक्र माधि० ॥ १०४ ॥ www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy