________________
Jain Education
निर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्याः, बहिर्निगतेन च नैषेधिकीपूर्वकं पुनः प्रविष्टव्यमिति तदनन्तरं नैषेधिक्याः, उपाश्रयप्रविष्टेन च गुरुमापृच्छय सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनायाः, आपृष्टे च निषिद्धे पुनः प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनायाः, प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः, एषा च गृहीत एवाशनादौ स्यादू अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः, इयं च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पद्मन्तरेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति । शेषं पूर्ववदिति ॥ ११९ ॥ अथ भावानुपूर्वीमाह
से किं तं भावाणुपुव्वी ?, २ तिविहा पण्णत्ता, तंजहा - पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुवी । से किं तं पुव्वाणुपुव्वी ?, २ उदइए उवसमिए खाइए खओवसमिए पारिणामिए संनिवाइए, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुथ्वी ?, २ सन्निवाइए जाव उदइए, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुथ्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमन्नभासो दुरूवूणो, से तं अणाणुपुव्वी । से तं भावाणुपुव्वी, से तं आणुपुव्वी, आणुपुव्वीत्ति पदं समत्तं ( सू० १२० )
ional
For Private & Personal Use Only
++++
jainelibrary.org