________________
Jain Education
द्रव्याणां सर्वत्र भावादिति । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिचैकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिति ?, उच्यते, यत्कालतो द्विसमयस्थितिकं तत् क्षेत्रतो द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते तच लोका सङ्ख्येयभाग एव स्याद्, अथवा द्विसमयस्थितिकं द्रव्यं खभावादेव लोकस्यासङ्ख्येयभाग एवावगाहते, न परतः, आदेशान्तरेण वा 'महाखंधवज्जमन्नदन्वेसु आइल्लंच पुच्छासु होज 'न्ति, अस्य हृदयं - मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य सङ्ख्येयभागेऽवगाहते किञ्चित्त्वसङ्ख्येये अन्यत्तु सङ्ख्येयेषु तद्भागेष्ववगाहते अपरं त्वसङ्ख्येयेष्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तखरूपाखायासु चतसृषु पृच्छाखेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमय स्थितित्वेनोक्तत्वान्न द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अनासम्भवः, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे कचिदेव दृश्यते । नानाद्रव्याणि तु सर्वलोके भवन्ति, द्विसमयस्थितीनां सर्वत्र भावादिति । गतं क्षेत्रद्वारं, स्पर्शनाद्वारमप्येवमेव भावनीयं । कालद्वारे
tional
गमववहाराणं आणुपुव्वीदव्वाई कालओ केवच्चिरं होंति ?, एगं दव्वं पडुच्च जहणेणं तिण्णि समया उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च सव्वद्धा,
For Private & Personal Use Only
w.jainelibrary.org