SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ ९५ ॥ Jain Education ऽत्र वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्येह विवक्षितत्वात्, भिन्नाञ्च परस्परं दण्डकपाटाद्यवस्थाः, ततस्तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धद्रव्यं, तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं विस्तरेण । अथवा यथा क्षेत्रानुपूर्व्या तथाऽत्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभः प्रदेशेऽप्राधान्याद्देशोन लोकवर्तित्वं वाच्यम्, एकसमयस्थितिक स्थानानुपूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः एवमन्यदपि आगमाविरोधतो वक्तव्यमिति । 'नाणादव्वाइं पहुच णियमा सव्वलोए होज 'त्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् । अनानुपूर्वी द्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिदम् ?, उच्यते, यत्कालत एकसमयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते तच लोकासख्येयभाग एव भवति, 'आएसंतरेण वा सव्वपुच्छासु होज'त्ति, अस्य भावना - इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परं भिन्नाः, आकारादिभेदात्, द्वित्रिचतुः प्रदेशकादिस्कन्धवत्, ततश्च ता एकैकसमयतित्वात् पृथगनानुपूर्वीद्रव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलेकमनानुपूर्वीद्रव्यं मतान्तरेण सङ्ख्येयभागादिकासु पञ्चस्खपि पृच्छासु लभ्यते, एतच सूत्रेषु प्रायो न दृश्यते, टीकाचूयस्त्वेवं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थितिक For Private & Personal Use Only वृत्तिः उपक्र माधि० ॥ ९५ ॥ w.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy