________________
पढमो बीओ निज्जुत्तिमीसितो भणितो । तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥” इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिमात्रत्वादस्येति ४, तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यं, तत्रो|चमी सूरिरुद्यमिनः शिष्याः, उद्यमी सूरिरनुद्यमिनः शिष्याः, अनुद्यमी मूरिरुद्यमिनः शिष्याः, अनुद्यमी सूरिरनुद्यमिनः शिष्या इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीयतृतीययोस्तु काचित्कथञ्चिद्भवत्यपि ५, तथाऽनुयोगः केन कर्त्तव्य इति तद्योग्यः कर्ताऽभिधानीयो, यदाह-| "देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी।अविकत्वणो अमाई थिरपरिवाडी गहियवक्को ॥१॥" थिर-1 परिवाडित्ति अविस्मृतसूत्रः। “जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासण्णू ॥२॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू । आहरणहेउउवणयनयनिउणो गाहणाकुसलो॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४॥” 'सिवोत्ति' मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्तः-उचितः प्रवचनसारं परिकथयितुं ६, तथा अयमनुयोगः कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यं ७, तथा 'तद्दारत्तिं तस्य-अनुयोगस्य
SSLARARASI ARASU
१ देशकुलजातिरूपवान् संहननी धृतियुतोऽनाशंसी । अविकत्वनोऽमायावी स्थिरपरिपाटिग्राह्यवाक्यः ॥१॥ जितपर्षत् जितनिद्रो मध्यस्थो देशकालभावज्ञः आसन्नलब्धप्रतिभो नानाविधदेशभाषाज्ञः ॥२॥ पञ्चविधे आचारे युक्तः सूत्रार्थतदुभयविधिज्ञः । आहरणहेतूपनयनयनिपुणः अवगाहनाकुशलः ॥ ३॥ खसमयपरसमयवित् गम्भीरो दीप्तिमान् शिवः सौम्यः । गुणशतकलितो युक्तः प्रवचनसार परिकथयितुम् ॥ ४॥
Jain Education
For Private & Personel Use Only
Harjainelibrary.org