SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो० अधि० रीया अनुयो अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथा-'निक्खेवेगट्ठ निरुत्ति मलधा- विही पवित्तीय केण वा कस्स? । तद्दारभेयलक्खणतदरिहपरिसा य सुत्तत्थो॥१॥ अस्या विनेयानुग्रहार्थ व्याख्या-इहानुयोगस्य निक्षेपो-नामस्थापनादिको वक्तव्यः १, तथाऽनुयोगस्यैकार्थिकानि वक्तव्यानि, यदाह-'अणुओगो य निओगो भास विभासा य वत्तियं चेव । एए अणुओगस्स य नामा एगट्टिया पंच ॥७॥ ॥२॥२, तथाऽनुयोगस्य निरुक्तं वक्तव्यं, तद्यथा-स्वाभिधायकसूत्रेण सहार्थस्य अनु-नियतः अनुकूलो वा दियोगः-अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रतिपादनमनुयोगः-सूत्रार्थकथनमित्यर्थः, अथवा-एकस्यापि | सूत्रस्थानन्तोऽर्थ इत्यर्थो महान् , सूत्रं त्वणु, ततश्चाणुना-सूत्रेण सहार्थस्य योगो अणुयोगः, तदुक्तम्"निययाणुकुलो जोगो सुत्तस्सत्थेण जो य अणुओगो। सुत्तं च अणुं तेणं जोगो अत्थस्स अणुओगो ॥१॥" ३, तथाऽनुयोगस्य विधिर्वक्तव्यो, यथा-प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि नियुक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागतः सोऽप्यर्थों वाच्यः, तदुक्तम्-"सुत्तत्थो खलु १ निक्षेप एकार्थः निरुक्तिः विधिः प्रवृत्तिश्च केन वा कस्य । तद्धाराणि भेदाः लक्षणं तदहा परिषश्च सूत्रार्थः ।। १ ॥ २ अनुयोगश्च नियोगो भाषा विभाषा वार्तिकं (व्यक्तिक) चैव । एतान्यनुयोगस्य च नामान्यकार्थिकानि पञ्च ॥१॥ ३ नियतोऽनुकूलो योगः सूत्रस्यार्थेन यः सोऽनुयोगः । सूत्र चाणु तेन योगोऽर्थस्यानुयोगः ॥१॥ ४ सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रितो भणितः । तृतीयश्च निरवशेष एष विधिर्भवति अनुयोगे ॥१॥ Jain Education in For Private & Personal Use Only hinelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy