________________
तानुसारेण रुचकस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः ॥ इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिखरूपप्रतिपादनार्थं शेषाणां तु नामाभिधानार्थमाह| "जंबुद्दीवाओ खलु निरन्तरा सेसया असंखइमा । भुयगवरकुसवराविय कोंचवराभरणमाई य॥१॥” इति, व्याख्या-एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य 'निरन्तरा नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भावः, ये तु शेषका भुजगवराय इत ऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसख्याततमा द्रष्टव्याः, तथाहि-'भुजगवरे'ति पूर्वोक्ताद् रुचकवराद् द्वीपादसङ्ख्येयान् बीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः समस्ति, 'कुसवर'त्ति ततोऽप्यसङ्ख्येयाँस्तान् गत्वा कुशवरो नाम दीपः समस्ति, अपिचेति समुच्चये, 'कोंचवरे'त्ति ततोऽप्यसख्येयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीपः समस्ति, 'आभरणमाई यत्ति एवमसङ्ख्येयान् द्वीपसमुद्रानुल्लच्याऽऽभरणादयश्च-आभरणादिनामसदृशनामानश्च दीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामान एव भवन्तीत्युक्तमेवेति गाथार्थः ॥ इयं च गाथा कस्याश्चिवाचनायां न दृश्यत एव, केवलं कापि वाचनाविशेषे दृश्यते, टीकाचूयोस्तु तद्व्याख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । तानेवाभरणादीनाह–'आभरणवत्थे'त्यादि गाथाद्वयम्, असङ्ख्येयानाम् असख्येयानां द्वीपानामन्ते आभरणवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपि दीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भूरमणो द्वीपः, शुद्धोदकरसः खयम्भूरमण एव समुद्र इति गाथाद्वयभावार्थः ॥ ननु ययेवं तीसख्येयान् दीपानतिक्रम्य ये
अनु. १६ Jan Education
For Private Personal use only