________________
अनुयो० मलधारीया
॥
९
॥
हेतुत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपा:-जन्त्वावासभूतक्षेत्रविशेषाः, सह मुद्रया-मर्यादया वर्तन्त वृत्तिः इति समुद्रा:-प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकमसङ्ख्यया भवन्ति, तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावज्जम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपः, ततस्तं परि- माधिक क्षिप्य स्थितो लवणरसाखानीरपूरितः समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वाद्, एवं पुरस्तादपि यथासम्भवं द्रष्टव्यं, 'धायइ कालो यत्ति, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डः, तत्परितोऽपि शुद्धोदकरसाखादः कालोदः समुद्रः, तं च परिक्षिप्य स्थितः पुष्करैः-पद्मवरैरुपलक्षितो दीपः पुष्करवरदीपः, तत्परितोऽपि शुद्धोदकरसाखाद एव
पुष्करोदः समुद्रः, अनयोश्च द्वयोरप्यकेनैव पदेनात्र संग्रहो द्रष्टव्यः 'पुक्खरे'त्ति, एवमुत्तरत्रापि, ततो 'वरुमाणोत्ति वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोदः समुद्रः, 'खीर'त्ति क्षीरवरो द्वीपः क्षीररसाखादः क्षीरोदः समुद्रः, 'घय'त्ति घृतवरो द्वीपः घृतरसाखादो घृतोदः समुद्रः, 'खोय'त्ति इक्षुवरो द्वीपः इक्षुरसा-18 खाद् एवेक्षुरसः समुद्रः, इत ऊर्ध्व सर्वेऽपि समुद्राः द्वीपसदृशनामानो मन्तव्याः , अपरं च खयम्भूरमणवर्जाः सर्वेऽपीक्षुरसास्वादाः, तत्र द्वीपनामान्यमूनि, तद्यथा नन्दी-समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एव-13 मरुणवरः अरुणावासः कुण्डलवरः शङ्खवरः रुचकवर इत्येवं षडू दीपनामानि चूर्णी लिखितानि दृश्यन्ते,
॥९ ॥ सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अतः चूर्णिलिखि
For Private Personal use only
www.jainelibrary.org