________________
अनुयो० मलधा
वृत्तिः उपक्रमाधि०
रीया
८८॥
स्माद्धस्तनप्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहृत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः, तत्र लोक्यते-केवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधोव्यवस्थितो लोकोऽधोलोकः, अथवा अधाशब्दो- ऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्- द्रव्ययोगाद्धः-अशुभो लोकोऽधोलोकः, उक्तं च-"अहव अहोपरिणामो खेत्तणुभावेण जेण ओसणं । असुभो अहोत्ति भणिओ व्वाणं तेणऽहोलोगो ॥ १॥"त्ति, तस्यैव रुचकमतरदयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योल नव योजनशतानि परिहृत्य परतः किश्चिन्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः, अर्द्धम्-उपरि व्यवस्थापितो लोकः ऊर्द्धलोकः, अथवा ऊर्ध्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्ति, अतः शुभपरिणामवद्रव्ययोगादूर्ध्व-शुभो लोक ऊर्ध्वलोकः, उक्तं च| "उहृति उवरि जंचिय सुभखित्तं खेत्तओ य व्वगुणा । उप्पजंति सुभा वा तेण तओ उड्डलोगोत्ति॥१॥" तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादशयोजनशतानि तिर्यगलोकः, समयपरिभाषया तिर्यग्-मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः, अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र च क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यङ्-मध्यमो लोकस्तिर्यग्लोकः, अथवा खकीयोर्ध्वाधोभा
१ अथवा अधःपरिणामः क्षेत्रानुभावेन येनोत्सन्नम् । अशुभोऽध इति भणितः द्रव्याणां तेनाधोलोकः ॥ १॥ २ ऊर्ध्वमिति उपरि यदेव शुभक्षेत्रं क्षेत्रतश्च | द्रव्यगुणाः । उत्पद्यन्ते शुभा वा तेन सक ऊर्ध्वलोक इति ॥१॥
॥८८॥
Jain Educatio
n
For Private & Personel Use Only
br.jainelibrary.org