________________
Jain Education
इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयं, नवरं क्षेत्रप्राधान्यादत्र 'तिपएसोगाढा आणुपुवी जाव असंखेज्ज एसोगाढा आणुपुब्बी एगपएसोगाढा अणाणुपुव्वी दुपएसोगाढा अवन्तव्वए' इत्यादि वक्तव्यं, शेषं तथैवेति ॥ १०२ ॥ उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी, अथौपनिधिकीं तां निर्दिदिक्षुराह
से किं तं उवणिहिआ खेत्ताणुपुव्वी ?, २ तिविहा पण्णत्ता, तंजहा - पुव्वाणुपुव्वी पच्छाyoवी अणाणुपुवी । से किं तं पुव्वाणुपुव्वी १, २ अहोलोए तिरिअलोए उड्डलोए, सेवापुवी । से किं तं पच्छाणुपुव्वी ?, २ उड्डलोए तिरिअलोए अहोलोए, सेतं पच्छा पुवी । से किं तं अणाणुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए तिगच्छगयाए सेटीए अन्नमन्नभासो दुरूवूणो, से तं अणाणुपुव्वी ।
अत्र व्याख्या पूर्ववत् कर्तव्या, नवरं तत्र द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, अत्र तु क्षेत्रानुपूर्व्यधिकारादधो लोकादिक्षेत्रविशेषा इति, इह चोर्ध्वाधश्चतुर्दशरज्वायतस्य विस्तरतस्त्वनियतस्य पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागाः सम्पद्यन्ते, तत्रास्यां रत्नप्रभायां बहुसमभूभागे मेरुमध्ये नभः प्रतरद्वयेऽष्टप्रदेशो रुचकः समस्ति, तस्य च प्रतरद्वयस्य मध्ये एक
For Private & Personal Use Only
www.jainelibrary.org