________________
देशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयुज्यस्तदा स्यादेवं, तच्च नास्ति, यत एकस्मिन्नपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रयः प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाधेयद्रव्येणाक्रान्ताः सन्तः प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमन्यान्यपि चतुष्पदेशावगाढाद्याधेयेनाध्यासितत्वात्त एवानेकेषु चतुष्कसंयोगेष्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसङ्घयेयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एवं चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादयः प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावनीया, तस्मादसवयेयप्रदेशात्मके खस्थित्या व्यवस्थिते लोके यावन्तस्त्रिकसंयोगादयोऽसवयेयकसंयोगपर्यन्ताः संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावाद्, आधेयभेदे चाधारभेदात्, न हि नभःप्रदेशा येनैव खरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयकताप्रसङ्गाद्, एकस्मिन्नाधारस्वरूपे तवगाहाभ्युपगमाद्, घटे तत्वरूपवत्, तस्मात्त्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम् , अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वाद् , अनानुपूर्योऽपि स्तोका एव, लोकप्रदेशसङ्ख्यमात्रत्वाद् । अत्र सुखप्रतिपत्यर्थं लोके किल पञ्चाकाशप्रदेशाः कल्प्यन्ते, तद्यथा-", अत्रानानुपूर्व्यस्तावत् पश्चैव प्रतीताः, अवक्त
व्यकानि त्वष्टौ, द्विकसंयोगानामिहाष्टानामेव सम्भवाद, आनुपूर्व्यस्तु षोडश संभवन्ति, दशानां त्रिकसंबायोगानां पश्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकयोगस्येह लाभादू, दश त्रिकयोगाः कथमिह लभ्यन्ते
Jain Education in
For Private & Personal Use Only
HIMjainelibrary.org