SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ACCESCAMARRANGAROO द्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशे-| व्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते, 'उक्कोसेणं असंखेनं कालं'ति तदेव यदा-19 ऽन्येषु क्षेत्रप्रदेशेष्वसङ्खयेयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षित-18 व्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्खयेयोऽन्तरकालः प्राप्यते, न पुनद्रव्यानुपूर्व्यामिवानन्तो, यतो द्रव्यानुपूविवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्तोऽनन्तः कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्घयेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्ख्येयकालैव, ततश्चासङ्खयेये क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसङ्ख्येयकालात्तेष्वेव नभःप्रदेशेष्वागत्यावगाहनीयं, न च वक्तव्यमसङ्खयेयेऽपि क्षेत्रे पौनः पुन्येन तत्रैव परिभ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ?, यत इहासङ्खयेयक्षेत्रेऽसङ्ख्येयकालमेवान्यत्र तेन पर्यटितव्यं, तत ऊर्ध्व पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयं, वस्तुस्थितिखाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम् । अन्ये तु व्याचक्षते-यस्मात् श्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतं, तस्य क्षेत्रस्य खभावादेवासङ्खयेयकालादूर्ध्व तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्ख्यादिधर्मः सर्वथा तुल्येनान्येन वा तथाविधा|धेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्घयेय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति । 'नाणाव्वाई'इत्यादि, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वा Jain Education For Private & Personel Use Only Vinaw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy