________________
CSCk
वृत्तिः उपक्रमाधि
अनुयो०
तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालंच तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवं, यतो द्रव्यानुपूया द्रव्याणामलधा
|| मेवानुपूर्व्यादिभाव उक्तो, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वादू, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नाना-18 रीया मप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभावस्थानदृष्टान्तादिसिद्धत्वात्,
अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूादिभावो मुख्यस्तु क्षेत्रस्यैव, क्षेत्रानुपूर्व्यधिकारात्, ततो यदि लोकप्रदेशाः सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तव्यकतया प्रतिपद्येत?, यस्त्विहैव येष्वाकाशप्रदेशेष्वानुपूर्व्यस्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणाद्, अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति, अथवा आनुपूर्वीद्रव्यस्य खावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्याङ्गुल्यादयः, ततश्च विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते, यथा पुरुषस्यैवाङ्गुलीदेशे, दे|शिवस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः, न च वक्तव्यं देशिनो देशो न कश्चिद्भिन्नो दृश्यते, एकान्ताभेदे देशमात्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणाबाचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, खकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिंश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाशः सिद्धो भवतीति भावः, न च देशदेशिभावः कल्पनामात्रं, सम्मत्यादिन्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन, 'नाणाब्वाइ'मित्यादि, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽ
॥८१॥
Jain Education
a
l
For Private Personal Use Only
w.jainelibrary.org