SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ त्राऽऽनुपूर्वीणां नानात्वं, तैश्च त्र्यादिप्रदेशावगाडैद्रव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः । अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्ख्येयभागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनाद्, एकप्रदेशस्य च लोकासङ्घयेयभागवर्तित्वादिति, 'नाणाव्वाई पडुच्च नियमा सबलोए होजत्ति, एकैकमदेशावगाद्वैरपि द्रव्यभेदैः समस्तलोकव्याप्तेरिति एवम् 'अवत्तव्वगव्वाणिवित्ति, अवक्तव्यकद्रव्यमप्येक लोकासङ्घयेयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानात्, प्रदेशद्वयस्य च लोकासङ्ख्येयभागवर्तित्वादिति, तथा प्रत्येकं विप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्तैर्नानाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति । अत्राह-नन्वानुपूर्व्यादिवव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भावः प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात् ?, अत्रोच्यते, इह व्यादिप्रदेशावगाढा द्रव्याद्भिन्नमेव तावदेकप्रदेशावगाद, ताभ्यां च भिन्नं द्विप्रदेशावगाढं, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात्तत्तद्धर्माभिव्यक्तौ दृश्यत एव समकालं व्यपदेशभेदो, यथा खड्गकुन्तकवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति, इह कचिद् वाचनान्तरे "अणाणुपुव्वीदव्वाइं अवत्तव्वगंव्वाणि य जहेव हिढे"ति अतिदेश एव दृश्यते, तत्र 'हेतुति in Eduentan For Private & Personal Use Only H arjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy