________________
अन्यस्तु सङ्ख्येयाँस्ता क्षेत्रावगाहो (ग्रन्थान देशोने वा लोके आनाकवयंसङ्ख्येयप्रदेश
येयम्, अन्यस्तु सङ्ख्येयास्तद्भागानवगाह्य वर्तते, अन्यस्त्वसङ्खयेयानित्यतस्तत्स्कन्धद्रव्याप्रेक्षया सङ्ख्येयादिभागवर्तित्वं भावनीयं, विशिष्टक्षेत्रावगाहो (ग्रन्थाग्रम् २०००) पलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानुपूर्वीत्वेनोक्तत्वादिति भावः। 'देसूणे वा लोए होज'त्ति, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति, अत्रा|ऽऽह-नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्तं, तस्य च समस्तलोकवर्त्य सङ्खयेयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वी-12 द्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता प्रोच्यते?, सत्यं, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्राऽऽनुपूर्व्याः सर्वलोकव्यापिता नि-1 दिश्येत तदाऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशतयाऽभावः प्रतीयते(येत), ततोऽचित्तमहास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येकः प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणादिति भावः, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः, उक्तं च पूर्वमुनिभिः"महखंधापुण्णेविअवत्तव्वगणाणुपुग्विव्वाइं । जद्देसोगाढाइं तद्देसेणं स लोगूणो ॥१॥ ननु यद्येवं तर्हि द्रव्यानुपूामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन
१ महास्कन्धापूर्णेऽपि अवक्तव्यकानानुपूर्वीद्रव्याणि । यद्देशावगाढानि तद्देशेन स लोको नः ॥ १॥
SAHARSA
Jain Education in
For Private Personal Use Only
indlanelibrary.org