________________
अनुयो०
मलधा
रीया
1104 11
पश्चानुपूर्वी निरूपयितुमाह - 'से किं तं पच्छाणुपुथ्वी' त्यादि, पाश्चात्यादारभ्य प्रतिलोमं व्यत्ययेनैवानुपूर्वी - परि पाटिः क्रियते यस्यां सा पञ्चानुपूर्वी, अत्रोदाहरणमुत्क्रमेण, इदमेवाऽऽह - 'अडासमये' त्यादि, गतार्थमेव । अथानानुपूर्वी निरूपयति- 'से किं तमित्यादि, अत्र निर्वचनम् - 'अणाणुपुव्वी एयाए चेवेत्यादि, न विद्यते आनुपूर्वी यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी, विवक्षितपदानामनन्तरोक्तक्रमद्वयमुल्लङ्घय परस्परास दृशैः सम्भवद्भिर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः, का पुनरियमित्याह - 'अन्नमन्नन्भासो ́त्ति, अन्योऽन्यं - परस्परमभ्यासो - गुणनमन्योऽन्याभ्यासः 'दूरुवोणो' त्ति द्विरूपन्यूनः आद्यन्तरूपरहितः अनानुपूर्वीति सण्टङ्कः, कस्यां विषये योऽसावभ्यास इत्याह- 'श्रेण्यां' पङ्की, कस्यां पुनः श्रेण्यामित्याह - 'एयाए चेवे'ति, 'अस्यामेव' अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्यां कथंभूतायामित्याह - एक आदिर्यस्यां सा एकादिकी, एकैक उत्तरः प्रवर्द्धमानो यस्यां सा एकोत्तरा तस्यां पुनः कथंभूतायामित्याह – 'छगच्छ्गयाए 'ति, षण्णां गच्छ:-समुदायः षड्गच्छस्तं गता प्राप्ता षड्गच्छ्रगता तस्यां, धर्मास्तिकायादिवस्तुषट्तविषयायामित्यर्थः, आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्राया धर्मास्तिकायादिवस्तुषविषयायाः पतेर्या परस्परगुणने भङ्गकसङ्ख्या भवति सा आद्यन्तभङ्गकद्वयरहिता अनानुपूर्वीति भावार्थः । तत्रोर्ध्वाधः किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः, तत्र चैककेन द्विके गुणिते जातौ द्वावेव, ताभ्यां त्रिको गुणितो जाताः षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्श्चकस्य तु तद्गुणने जातं विंशं शतं षट्टस्य तद्गुणने जातानि विंशत्य
Jain Education International
For Private & Personal Use Only
वृत्तिः
उपक्र
माधि०
।। ७५ ।।
'Wwww.jainelibrary.org