SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ थाऽनुपपत्तेरस्तीति श्रद्धेयं, न च धर्माधर्मास्तिकायावेव तदाधारौ भविष्यत इति वक्तव्यं, तयोस्तद्गतिस्थितिसाधकलेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गादिति । घटादिज्ञानगुणस्य प्रतिप्राणि खसंवेदनसिद्धत्वाज्जीवस्यास्तित्वमवसातव्यं, न च गुणिनमन्तरेण गुणसत्ता युक्ता, अतिप्रसङ्गात्, न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्त चिद्रूपं सदैवेन्द्रियगोचरातीतत्वादिधर्मोपेतम् , अतः तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव न तु देहो, विपरीतत्वाद्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तीनवस्था, रूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति । पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः प्रत्यक्षत्वाच सत्त्वं प्रतीतमेवेति । कालोऽप्यस्ति बकुलाशोकचम्पकादिषु पुष्पफलप्रदानस्यानियमेनादर्शनाद्, यस्तु तत्र नियामकः स काल इति, स्वभावादेव तु तद्भवने 'नित्यं सत्त्वमसत्त्वं वेत्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थदुरवगमताभयादिति । आह-धर्मास्तिकायस्य प्राथम्यमध-17 मास्तिकायादीनां तु तदनन्तरं क्रमेणेत्थं निर्देशः कुतः सिद्धो? येनात्र पूर्वानुपूर्वीरूपता स्यादिति, अत्रीच्यते, आगमे इत्थमेव पठितत्वात् , तत्रापि कथमित्थमेव पाठ इति चेद्, उच्यते, धर्मास्तिकाय इत्यत्र यदाचं धर्मेति पदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रतिपक्षवादधर्मास्तिकायस्य, ततस्तदाधारत्वादाकाशास्तिकायस्य, ततः स्वाभाविकामूर्तत्वसाम्याज्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवपर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति । अथ & AAAAASANS Jain Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy