SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सिद्धः सर्वसूक्ष्मः वातावाद, अत्र त्वतीतानावहत्व एव तदुपपत्तेरिति चामत, वृत्तिः उपक्रमाधि० रीया अनुयो० समयः सङ्केत्तादिवाचकोऽप्यस्ति ततो विशिष्यते-अद्धारूपः समयोऽद्धासमयः, वक्ष्यमाणपट्टसाटिकादिमलधा- पाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थः, अत एवात्र अ स्तिकायत्वाभावः, बहुप्रदेशत्व एव तद्भावाद्, अत्र त्वतीतानागतयोर्विनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावात्, नन्वेवमावलिकादिकालाभावः, समयबहुत्व एव तदुपपत्तेरिति चेद, भवतु ॥७४॥ तर्हि को निवारयिता ?, 'समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य' इत्याद्यागमविरोध इति चेत्, नैवम् , अभिप्रायापरिज्ञानाद्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमाद्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसङ्घात इवावलिकादिषु समयसङ्घातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्चयेति । अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेर्धर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यं, न च वक्तव्यं तद्गतिस्थिती च भविष्यतो धर्माधर्मास्तिकायौ च न भविष्यत इति प्रतिबन्धाभावादेनकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेपि तत्प्रसङ्गात्, यदि तु अलोकेऽपि तद्गतिस्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्र प्रवेशादेकद्वित्र्यादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यात्, न चैतदृष्टमिष्टं वेत्यासाद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदार्थानामाधारान्य १ समय आवलिका मुहूर्तों दिवसोऽहोरात्रं पक्षो मासश्च, ॥७४॥ Jain Education For Private Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy