SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ REAMSACCESSACROSSASS काए, से तं पच्छाणुपुब्बी। से किं तं अणाणुपुवी?, २ एयाए चेव एगाइआए एगु तरिआए छगच्छगयाए सेढीए अण्णमण्णब्भासो दूरूवूणो से तं अणाणुपुवी (सू०९७) इह च द्रव्यानुपूय॑धिकाराद धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह-'धम्मत्थिकाए' इत्यादि, तत्र जीवपुद्गलानां खत एव गतिक्रियापरिणतानां तत्वभावधारणादू धर्मः, अस्तयः-प्रदेशास्तेषां काया-सङ्घातोऽस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्ख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्वभावाधारणाद्धर्मः, जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायवत् सर्व, सर्वभावावकाशनादाकाशम् , आ-मर्याद्या तत्संयोगेऽपि | खकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया प्रकाशन्ते-खभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा आ-अभिविधिना सर्वात्मना तत्संयोगानुभवनलक्षणेन काशन्ते-तत्रैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः, तच्च तदस्तिकायश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः, | पूरणगलनधम्माणः पुद्गलाः-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, ते हि कुतश्चिद्रव्याद्गलन्ति-वियुज्यन्ते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः, ते च तेऽस्तिकायाश्रेति समासः, अद्धाशब्दः कालवचनः Jain Education Intematona For Private & Personel Use Only Vaww.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy