________________
*SXSXSSRAHASAN
आणुपुव्वी अणंतपएसिए आणुपुव्वी परमाणुपोग्गले अणाणुपुत्वी दुपएसिए अवत्त
व्वए, से तं संगहस्स अट्रपयपरूवणया (सू० ९१) यावत् 'तिपएसिए आणुपुवी इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी अनेके त्रिप्रदेशिका आनुपूर्व्य इत्यागुक्तम् , अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्तिमयमभिधत्ते-त्रिप्रदेशिकाः स्कन्धास्त्रिप्रदेशिकत्वसामान्याद व्यतिरेकिणोऽव्यतिरेकिणो वा, यद्याद्यः पक्षस्तर्हि ते त्रिप्रदेशिकाः स्कन्धाः त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकाविदिति, अथ चरमः पक्षस्तहि सामान्यमेव ते, तदव्यतिरेकात, तत्खरूपवत्, सामान्यं चैकखरूपमवेति सर्वऽपि त्रिप्रदेशिका एकैवानुपूर्वी, एवं चतुष्पदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्पदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवाऽऽनुपूर्वी इत्यविशुद्धसंग्रहनयमतं, विशुद्धसंग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्याव्यतिरेकाद्व्यतिरिक्ते चानुपूर्वीत्वाभावप्रसङ्गात् सर्वाऽप्येकैवानुपूर्वीति । एवमनानुपूर्वीत्वसामान्याव्यतिरेकात्
सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथाऽवक्तव्यकत्वसामान्याव्यतिरेकात् सर्वेऽपि द्विप्रदेशिकस्कन्धा एकटू मेवावक्तव्यकमिति सामान्यवादित्वेन सर्वत्र बहुवचनाभावः, 'से तमित्यादि निगमनम् ॥ ९१ ॥ भङ्गसमु
कीर्तनतां निर्दिदिक्षुराह
SARKARANG
Jain Education in
For Private 8 Personal Use Only
Shjainelibrary.org,