SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तीति प्रवेशार्थतयाऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम् । उक्तं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीमुभयार्थतामाश्रित्य तदाह - 'दव्वट्टपए सट्टयाए' इत्यादि, इहो भयार्थताधिकारेऽपि यदेवाल्पं तदेवादौ दर्श्यते, अवक्तव्यकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम्, 'सव्वत्थोवाई णेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए 'ति (च), अपरं चोभयार्थताधिकारेऽपि 'अणाणुपुत्र्वीदच्वाइं दव्वट्टयाए' इत्यादि यदुक्तम् 'अपएसद्वयाएत्ति, तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकत्वादिति मन्तव्यं, ततश्चेदमुक्तं भवति-द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या । आह- यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः किमनयोभयार्थताचिन्तयेति चेत्, नैवं, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकचिन्तायां न निश्चितम्, अत्र तु 'ताई चैव परसट्टयाए अनंतगुणाई' इत्यनेन तन्निर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात् प्रत्येकावस्थातो भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इति निगमयति- 'से तं अणुगमेति । तद्भणने च समर्थिता नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति- 'से तं नैगमें' त्यादि ॥ ८९ ॥ व्याख्याता नैगमव्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह Jain Education International For Private & Personal Use Only ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy