SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विस्तरेण । उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानीं प्रदेशार्थतया तदेवाऽऽह - 'पएसट्टयाए सव्वत्थोवाइं नेगमववहाराणमित्यादि, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कुत इत्याह- 'अपएसझ्याए 'त्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हि तेषु प्रदेशाः स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति 'परमाणुरप्रदेश' ॥ ६८ ॥ इति वचनाद्, अतः सर्वस्तोकान्येतानि, ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवं, प्रकृष्टः- सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भागः प्रदेश इति व्युत्पत्तेः प्रतिप||रमाणु प्रदेशार्थताऽभ्युपगम्यत एव, आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया त्वप्रदेशार्थतेत्यदोषः, अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशेषाधिकानि, यतः किलासत्कल्पनया अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां तु शतं, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात् तदेव शतमवस्थितम् अवक्तव्यकद्रव्याणां त्विह प्रत्येकं | द्विप्रदेशत्वाद् द्विगुणितानां विंशत्युत्तरं प्रदेशशतं जायत इति तेषामितरेभ्यः प्रदेशार्थतया विशेषाधिकत्वं भावनीयम् । आनुपूर्वीद्रव्याणि प्रदेशार्थतया अवक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्ति, कथम् ?, यतो द्रव्यातयाऽपि तावदेतानि पूर्वेभ्योऽसङ्ख्यातगुणान्युक्तानि यदा तु सङ्ख्यातप्रदेशिकस्कन्धानामसङ्ख्यातप्रदेशिकस्कन्धानामनन्ताणुकस्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भव अनुयो० मलधा रीया Jain Education International For Private & Personal Use Only वृत्तिः उपक्र माधि० ॥ ६८ ॥ www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy