SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना बहूनि असङ्ख्येयगुणत्वादिना तुल्यानि समसङ्ख्यत्वेन विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दाः पक्षान्तरवृत्तिद्योतकाः, इति पृष्टे वाचः क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते, तत्र-सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगव्वाई दवट्ठयाए'त्ति नैगमव्यवहारयोः द्रव्यार्थतामपेक्ष्य तावद्वक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतामेवापेक्ष्य विशेषाधिकानि, कथम् ?, वस्तुस्थितिखभावाद, उक्तं च-" एएंसि णं भंते! परमाणुपोग्गलाणं दुपएसियाण खंधाणं कयरे कयरेहिंतो बहुया?, गोयमा ! दुपएसिएहिंतोखंधेहिंतो परमाणुपोग्गला बहुग"त्ति, तेभ्योऽपि आनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासङ्ख्येयगुणानि,यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यकद्रव्येषु च परमाणुलक्षणं व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपूर्वीद्रव्येषु तु व्यणुकस्कन्धादीन्येकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अतः स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽसङ्ख्यातगुणानि । ननु यदि तेषु स्थानान्यनन्तानि तानन्तगुणानि पूर्वेभ्य|स्तानि कस्मान्न भवन्तीति चेत्, नैवं, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तभागवर्तित्वात् । खभावादेव स्तोका इति न किश्चित्तैरिह बर्द्धते, अतो वस्तुवृत्त्या किलासङ्ख्यातान्येव तेषु स्थानानि प्राप्यन्ते, तदपेक्षया त्वसङ्ख्यातगुणान्येव तानि, एतच पूर्व भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्व भावनीयमित्यलं १ एतेषां भदन्त ! परमाणुपुद्गलानां द्विप्रदेशिकानां स्कन्धानां कतरे कतरेभ्यो बहुकाः !, गौतम ! द्विप्रदेशिकेभ्यः स्कन्धेभ्यः परमाणुपुद्गला बहुकाः. Jain Education a l For Private & Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy