SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्तः, अत्रोच्यते, स्यादेवं, हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेद्, एतच्च नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येयकालत्वादित्युक्तमेव, अथ ब्रूयाद्-यस्मिन्नेव स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत्स्कन्धोऽसख्येयकालाद्भिद्यते तय॑तावतैव चरितार्थः पुद्गलसयोगास ङ्ख्येयकालनियमो, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवं, यस्यान्येन संयोगो जातस्तस्यासडूख्येयकाला वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तर्हि परमाणोः किमायातं?, तस्यान्यसंयोगस्य तदवस्थत्वात् , तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति | यथोक्त एवान्तरकालो न त्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसख्येयरूपस्यैवान्तरकालस्योक्तवादित्यलं विस्तरेण । 'नाणाद्व्वाइं पडुच्चे'त्यादि पूर्ववद्भावनीयम् । अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् 'एग व्वं पडुचे'त्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिकः स्कन्धो विघटितः, खतनं परमाणुद्वयं जातं, समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां द्विप्रदेशिकः स्कन्धो निष्पन्नः, अथवा विघटित एव द्विप्रदेशिकः स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्व पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते, 'उक्कोसेणं अणंतं कालं' इति, कथम् ?, अत्रोच्यते, अवक्तव्यकद्रव्यं 84545455555555 JainEducation For Private sPersonal use Only ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy