________________
अनुयो० मलधा
वृत्तिः उपक्रमाधि.
रीया
॥६४॥
độ khó khách
धिकारादसकत प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकाल: प्राप्यते, नानाद्रव्याण्यधिकृत्य पुनर्नास्त्यन्तरं, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशुन्यत्वादिति भावः । अनानुपूर्वीद्रव्यान्तरकालचिन्तायां 'एगं व्वं पडुच्च जहन्नेणं एकं समयंति, इह यदा किश्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणुझ्यणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूवं वियुज्य पुनरपि तथाखरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकालः प्राप्यते, 'उक्कोसेणं असंखेनं कालं'ति तदेवानानुपूर्वीद्रव्यं यदा अन्येन परमाणुद्व्यणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चास-ख्येयं कालं स्थित्वा वियुज्य पुनस्तथाखरूपमेव भवति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते । अत्राह-ननु अनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सह संयुज्यते, तत्संयुक्तं चासख्येयं कालमवतिष्ठते, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतरः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवं तत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपि स्कन्धाः संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं
॥६४॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org