________________
वृत्तिः
रीया
उपक्रमाधि०
अनुयोर्वीद्रव्याणि व्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एक द्रव्यमाश्रित्य तथामलधा- विधपरिणामवैचित्र्यात् किश्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे भागे भवति, एकं तत्सङ्ख्यातभागमवगाह्य तिष्ठती
त्यर्थः, अन्यत्तु तदसवयेयभागमवगाहते, अपरं तु बहूँस्तत्सङ्खयेयान् भागानवगाह्य वर्तते, अन्यच्च बहूँस्तदसङ्खयेयभागानवगाह्य तिष्ठतीति, 'सव्वलोए वा होज्जत्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्या?, उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि-लोकमध्यव्यवस्थितो|ऽसौ प्रथमसमये तिर्यगसङ्ख्यातयोजनविस्तरं सङ्ख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाटं, तृतीये मन्थानं, चतुर्थे लोकव्याप्ति प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे मन्थानं सप्तमे कपाटमष्टमे तु दण्डं संहृत्य खण्डशो भिद्यत इत्येके, अन्ये त्वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकाद्वसेयमिति । वाशब्दः समुच्चये, एवं यथासम्भवमन्यत्रापि । 'णाणाव्वाई पडुचे' त्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्ति प्रतीत्य प्रकृत्य वा अधिकृत्येत्यर्थः 'नियमात् नियमेन सर्वलोके भवन्ति, न सङ्खयेयादिभागेषु, यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु त्वेकं द्रव्यमाश्रित्य लोकस्यासङ्ख्येय|भाग एव वृत्तिः, न सङ्ख्येयभागादिषु, यतोऽनानुपूर्वी तावत् परमाणुरुच्यते, स चैकाकाशप्रदेशावगाढ
PLACESAMANARCरकर
ENGAARA
Jain Education
For Private Personal Use Only
ww.sainelibrary.org