________________
SUSCRYSANSAR
पर्यालोचयितव्यं, तथा आनुपूादिपदाभिधेयद्रव्याणां प्रमाणं-सङ्ख्यास्वरूपं प्ररूपणीयं, चः समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं-तदाधारखरूपं प्ररूपणीयं, कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः, तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः, तथा अन्तरं-विवक्षितखभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरह लक्षणं प्ररूपणीयं, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूादिद्रव्याणां द्रव्यार्थप्रदेशार्थउभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम्, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः ॥१॥८॥ व्यासार्थ तु ग्रन्थकारः खयमेव बिभणिषुराद्यावयवमधिकृत्याऽऽह
नेगमववहाराणं आणुपुत्वीदव्वाइं किं अत्थि नत्थि ?, णियमा अत्थि, नेगमववहाराणं अणाणुपुवीदव्वाइं किं अत्थि णत्थि ?, णियमा अत्थि, नेगमववहाराणं अव
तव्वगदव्वाइं किं अत्थि णत्थि ?, नियमा अस्थि (सू० ८१) नैगमव्यवहारयोरानुपूर्वीशब्दाभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि कि सन्ति नेति प्रश्नः, अनोत्तरम् । –'नियमा अत्थि' इति, एतदुक्तं भवति-नेदं खरशृङ्गादिवदानुपूर्वीपद्मसदर्थगोचरम्, अतो नियमात् सन्ति
Join Education intentional
For Private & Personal Use Only
www.jainelibrary.org