________________
अनुयो० मलधा
वृत्तिः
उपक्र
रीया
माधि०
॥ ५९॥
तिवृत्तावेव स्यात्, परजातिवृत्तर्विरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपुर्वीद्रव्याणि आनुपूवीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूादीनामपि स्वस्थानावतारो भावनीयः। 'सेत' मित्यादि निगमनम् ॥ ७९ ॥ उक्तः समवतारः, अथानुगमं बिभणिषुरुपक्रमते
से किं तं अणुगमे ?, २ नवविहे पण्णत्ते, तंजहा-संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा य ४ । कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहुं
चेव ॥१॥ (८०) अत्रोत्तरम्-'अणुगमे नवविहे' इत्यादि, तत्र सूत्रार्थस्थानुकूलमनुरूपं वा गमनं-व्याख्यानमनुगमः, अथवा सूत्रपठनादनु-पश्चाद्गमनं-व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थो गम्यते-ज्ञायते अनेनेत्यनुगमो-| व्याख्यानमेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो-नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति-तद्यथे'त्युपदर्शनार्थः 'संतपय गाहा, सदर्थविषयं पदं सत्पदं तस्य प्ररूपणं-प्रज्ञापन सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता सा प्रथमं कर्तव्या, इदमुक्तं भवति-इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गब्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्चित् (खित्) खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथम
॥ ५९॥
in Edenland
For Private & Personal Use Only
Caldainelibrary.org